पूर्वमायाति भाद्राद्यदाषाढस्य परं शुभम्।
शिवनामाभिविख्यातं तद्विद्धि श्रावणं श्रुतम्।।1
हरितं दिक्षु सर्वत्र गायति नवगीतिकाम्।
वर्षन्ति बिंदवो मन्दं श्रावणं नूनमेव च।।2
आम्रगन्धो यदा वाति गर्जन्ति कृष्णवारिदा:।
केकिनो वीक्ष्य नृत्यन्ति श्रावणं नूनमेव तद्।।3
दोलास्तरुषु सर्वत्र वायौ प्लवन्ति वेगत:।
युवत्यो गानलग्नाश्च श्रावणं नूनमेव तद्।।4
तडागा जलपूर्णाश्च नद्यो वहन्ति यत्र च।
तरन्ति सर्वत्र नौका: श्रावणं नूनमेव च।।5
पर्व प्रतीक्षते प्रेम्णा भगिनी स्वगृहेनिशम्।
रक्षासूत्रविबन्धाय श्रावणं नूनमेव तद् ।।6
देशभक्तान् च संस्तौति यशो गायन्ति सस्वरम्।
त्रिरंगो भाति रम्यो हि श्रावणं नूनमेव तद्।।7
रचनाकार:
अविनाशकुमारराव:
संस्कृतशिक्षकः
दिल्लीपब्लिकस्कूलफूलबाड़ी
जलपाईगुड़ी बंगप्रान्तः
मो. 7754054211