संस्कृतम्

गणनया ज्ञानम्

‘गणनया ज्ञानम्’ मम रचना सङ्ख्याविषये अस्ति I येन माध्यमेन प्रसिद्धवस्तूनां ज्ञानं भवति I सामान्यज्ञानं वर्धतैव -१: एकःजगात्येका माता वसुधा, पिता नभ:शशि: भास्करश्चास्ति एकैश्वर: Iचालयति जीवस्य जीवनमेक: प्राणः एका सङ्ख्या गण्यते सर्वप्रथमा I२: द्वौशरीरस्य स्तः आधारौ द्वौपादौ चलनाय, श्रवणाय कर्णौ,हस्तौ ग्रहणाय लेखनाय च नेत्रे द्रष्टुञ्चदम्पति: कुलवर्धनाय पालने च I३: त्रयःब्रह्माण्डे भवन्ति त्रयः लोका:ब्रह्मा विष्णु: महेशश्च सृष्टिकर्तारश्च,त्रिनेत्रधारकशिवं …

श्रावणमासः

पूर्वमायाति भाद्राद्यदाषाढस्य परं शुभम्।शिवनामाभिविख्यातं तद्विद्धि श्रावणं श्रुतम्।।1हरितं दिक्षु सर्वत्र गायति नवगीतिकाम्।वर्षन्ति बिंदवो मन्दं श्रावणं नूनमेव च।।2आम्रगन्धो यदा वाति गर्जन्ति कृष्णवारिदा:।केकिनो वीक्ष्य नृत्यन्ति श्रावणं नूनमेव तद्।।3दोलास्तरुषु सर्वत्र वायौ प्लवन्ति वेगत:।     युवत्यो गानलग्नाश्च श्रावणं नूनमेव तद्।।4तडागा जलपूर्णाश्च नद्यो वहन्ति यत्र च।तरन्ति सर्वत्र नौका: श्रावणं नूनमेव च।।5पर्व प्रतीक्षते प्रेम्णा भगिनी स्वगृहेनिशम्।रक्षासूत्रविबन्धाय श्रावणं नूनमेव तद् ।।6देशभक्तान् च संस्तौति यशो गायन्ति …