Tag Archives: shraavan month

श्रावणमासः

पूर्वमायाति भाद्राद्यदाषाढस्य परं शुभम्।शिवनामाभिविख्यातं तद्विद्धि श्रावणं श्रुतम्।।1हरितं दिक्षु सर्वत्र गायति नवगीतिकाम्।वर्षन्ति बिंदवो मन्दं श्रावणं नूनमेव च।।2आम्रगन्धो यदा वाति गर्जन्ति कृष्णवारिदा:।केकिनो वीक्ष्य नृत्यन्ति श्रावणं नूनमेव तद्।।3दोलास्तरुषु सर्वत्र वायौ प्लवन्ति वेगत:।     युवत्यो गानलग्नाश्च श्रावणं नूनमेव तद्।।4तडागा जलपूर्णाश्च नद्यो वहन्ति यत्र च।तरन्ति सर्वत्र नौका: श्रावणं नूनमेव च।।5पर्व प्रतीक्षते प्रेम्णा भगिनी स्वगृहेनिशम्।रक्षासूत्रविबन्धाय श्रावणं नूनमेव तद् ।।6देशभक्तान् च संस्तौति यशो गायन्ति …