'गणनया ज्ञानम्' मम रचना सङ्ख्याविषये अस्ति I येन माध्यमेन प्रसिद्धवस्तूनां ज्ञानं भवति I सामान्यज्ञानं वर्धतैव -
१: एकः
जगात्येका माता वसुधा, पिता नभ:
शशि: भास्करश्चास्ति एकैश्वर: I
चालयति जीवस्य जीवनमेक: प्राणः
एका सङ्ख्या गण्यते सर्वप्रथमा I
२: द्वौ
शरीरस्य स्तः आधारौ द्वौ
पादौ चलनाय, श्रवणाय कर्णौ,
हस्तौ ग्रहणाय लेखनाय च नेत्रे द्रष्टुञ्च
दम्पति: कुलवर्धनाय पालने च I
३: त्रयः
ब्रह्माण्डे भवन्ति त्रयः लोका:
ब्रह्मा विष्णु: महेशश्च सृष्टिकर्तारश्च,
त्रिनेत्रधारकशिवं त्रयम्बकं नमन्ति जना:
स्नात्वा गङ्गायमुनासरस्वतीनदीनां सङ्गमे च I
४: चत्वारः
सन्ति चत्वारितीर्थानि
बद्रीनाथ-द्वारका-जगन्नाथपुरी-रामेश्वराणि,
चत्वारो वेदा: ऋक्-यजु-साम-अथर्ववेदश्च
ये प्राचीना: विश्वविख्याताश्च I
५: पञ्च
पञ्चतत्वानि पृथिव्याकाशः वायुर्जलमग्निश्च
पञ्च ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि तन्मात्राश्च,
पाण्डवा महाभारते युद्धिष्ठिरार्जुनभीमनकुलसहदेवाश्च
हस्ते पञ्चानामाङ्गुलीनां मुष्टिका एकताया: प्रतीकम् I
६: षट्
भवन्ति षड्ऋतवः तेषु वसन्तः ऋतुराज:
भवन्ति षट् स्वादा: तेषु मधुरः श्रेष्ठः,
षट् सन्ति वेदाङ्गानि विकारा: दर्शनानि ऐश्वर्यं च
वॉलीबालक्रीडायां क्रीडन्ति षट् क्रीडका: I
७: सप्त
गगने सप्तर्षयः निशायां भासन्ते
सन्ति विश्वे सप्ताश्चर्याश्च,
तेषु विख्यातं यं भारते
सर्वप्रथमं ताजमहलस्मारकं स्थितम् I
८: अष्ट
अष्ट पतञ्जले: योगाङ्गानि
विभक्ता: अष्ट सौरग्रहाश्च,
पाणिने: ग्रन्थः अष्टाध्यायी
अष्ट प्रहरा: सिद्धयश्च सन्ति I
९: नव
नव निधयः सन्ति कुबेरस्य
देव्या: दुर्गाया: नव रूपाणि
साहित्ये नव रसा: भरतमते:
मन्यते तेषु श्रङ्गारो रसराजः च I
१०: दश
को न जानाति रामारिं दशाननं
सन्ति पृथिव्यां दश दिश:,
महाविद्या विद्यन्ते दश
दशावतारा: विष्णो: विदितश्च I
११: एकादश
सन्त्येकादश उपनिषद:
महेश्वरस्य रूद्ररूपाणि च,
जैनमते महावीरस्य एकादश प्रतिमा: मन्यते
फुटबॉल-हॉकीक्रीडायां क्रीडन्त्येकादश क्रीडकाश्च I
श्रद्धया-
अविनाशकुमाररावः